A beautiful 8-verse stotra depicting many qualities of Lord Vishnu.
कैवल्या अष्टकम
मधुरं मधुरेभ्योऽपि, मंगलेभ्योऽपि मंगलम् ।
पावनं पावनेभ्योऽपि, हरेर्नामैव केवलम् ।।1।।
आब्रह्मस्तम्बपर्यन्तं, सर्वं मायामयं जगत् ।
सत्यं सत्यं पुन: सत्यं, हरेर्नामैव केवलम् ।।2।।
स गुरु: स पिता चापि, सा माता बांधवोऽपि स: ।
शिक्षयेच्चेत्सदा स्मर्तुं, हरेर्नामैव केवलम् ।।3।।
नि: श्वासे न हि विश्वास:, कदा रुद्धो भविष्यति ।
कीर्तनीयमतो बाल्याद्धरेर्नामैव केवलम् ।।4।।
हरि: सदा वसेत्तत्र, यत्र भागवता जना: ।
गायन्ति भक्तिभावेन, हरेर्नामैव केवलम् ।।5।।
अहो दुखं महादुखं, दुखाद् दुःखतरं यत: ।
काचार्थं विस्मृतं रत्नं, हरेर्नामैव केवलम् ।।6।।
दीयतां दीयतां कर्णो, नीयतां नीयतां वच: ।
गीयतां गीयतां नित्यं, हरेर्नामैव केवलम् ।।7।।
तृणीकृत्य जगत्सर्वं, राजते सकलोपरि ।
चिदानन्दमयं शुद्धं, हरेर्नामैव केवलम् ।।8।।