The Purush Suktam is a hymn from the Rigveda, dedicated to Purusha, the cosmic being or universal spirit. It is a central text in Vedic and Hindu cosmology, illustrating the creation of the universe and the interconnectedness of all beings.
The Purusha Suktam is dedicated to Purusha, the cosmic being or universal spirit in Vedic tradition. Purusha is not associated with a specific deity like those found in later Hinduism (such as Vishnu, Shiv, or Devi), but rather represents the abstract, all-encompassing principle of creation and existence.
The Purusha Suktam holds profound significance in Vedic literature and Hindu philosophy, serving as a cornerstone of cosmological, societal, and spiritual understanding. This hymn, found in the Rigved, narrates the creation of the universe from the cosmic being, Purusha, symbolizing the unity and interconnectedness of all existence. It explains the origin of the four Varnas, or social classes, thereby illustrating the functional interdependence within society. Ritualistically, the Purusha Suktam is recited in various Vedic ceremonies, highlighting the importance of sacrifice in maintaining cosmic order. Philosophically, it aligns with the Advait Vedanta principle of non-dualism, emphasizing that the individual soul (Atman) and the universal soul (Brahman) are one. Its rich symbolism and poetic structure have inspired subsequent Hindu texts and philosophical thought, making it a vital part of India’s spiritual and cultural heritage.
।। पुरुष सूक्तम् ।।
ॐ तच्चं॒ यॊरावृ॑णीमहॆ । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तयॆ । दैवी॓ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षॆभ्यः ।
ऊ॒र्ध्वं जि॑गातु भॆष॒जम् । शं नॊ॑ अस्तु द्वि॒पदॆ॓ । शं चतु॑ष्पदॆ ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतॊ॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् ॥१॥
पुरु॑ष ऎ॒वॆदग्ं सर्वम्॓ । यद्भू॒तं यच्च॒ भव्यम्॓ ।
उ॒तामृ॑त॒त्व स्येशा॑नः । य॒दन्ने॑नाति॒रॊह॑ति ॥२॥
ऎ॒तावा॑नस्य महि॒मा । अतॊ॒ ज्यायाग्॑श्च॒ पूरु॑षः ।
पादोஉस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥३॥
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादॊ॓உस्ये॒हाஉஉभ॑वा॒त्पुनः॑ ।
ततो॒ विष्व॒ण्-व्य॑क्रामत् । सा॒श॒ना॒न॒श॒नॆ अ॒भि ॥४॥
तस्मा॓द्वि॒राड॑जायत । वि॒राजॊ॒ अधि॒ पूरु॑षः ।
स जा॒तॊ अत्य॑रिच्यत । प॒श्चाद्-भूमि॒मथॊ॑ पु॒रः ॥५॥
यत्पुरु॑षॆण ह॒विषा॓ । दॆ॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तॊ अ॑स्यासी॒दाज्यम्॓ । ग्री॒ष्म इ॒ध्मश्श॒रध्ध॒विः ॥६॥
स॒प्तास्या॑सन्-परि॒धयः॑ । त्रिः स॒प्त स॒मिधः॑ कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्न॒न्-पुरु॑षं प॒शुम् ॥७॥
तं य॒ज्ञं ब॒र्॒हिषि॒ प्रौक्षन्॑ । पुरु॑षं जा॒तम॑ग्र॒तः ।
तॆन॑ दॆ॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये ॥८॥
तस्मा॓द्य॒ज्ञात्-स॑र्व॒हुतः॑ । सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूग्-स्ताग्श्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्-ग्रा॒म्याश्च॒ यॆ ॥९॥
तस्मा॓द्य॒ज्ञात्स॑र्व॒हुतः॑ । ऋचः॒ सामा॑नि जज्ञिरॆ ।
छन्दाग्ं॑सि जज्ञिरॆ॒ तस्मा॓त् । यजु॒स्तस्मा॑दजायत ॥१॰॥
तस्मा॒दश्वा॑ अजायन्त । यॆ कॆ चॊ॑भ॒याद॑तः ।
गावॊ॑ ह जज्ञिरॆ॒ तस्मा॓त् । तस्मा॓ज्जा॒ता अ॑जा॒वयः॑ ॥११॥
यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒था व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्यॆतॆ ॥१२॥
ब्रा॒ह्म॒णॊ॓உस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याग्ं शू॒द्रॊ अ॑जायतः ॥१३॥
च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षॊः॒ सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत ॥१४॥
नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्ष्णॊ द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिशः॒ श्रॊत्रा॓त् । तथा॑ लॊ॒काग्म् अक॑ल्पयन् ॥१५॥
वॆदा॒हमॆ॓तं पुरु॑षं म॒हान्तम्॓ । आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रॆ ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाஉभि॒वद॒न्॒, यदाஉஉस्तॆ॓ ॥१६॥
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्-प्र॒दिश॒श्चत॑स्रः ।
तमॆ॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यतॆ ॥१७॥
य॒ज्ञॆन॑ य॒ज्ञम॑यजन्त दॆ॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
तॆ ह॒ नाकं॑ महि॒मानः॑ सचन्तॆ । यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ दॆ॒वाः ॥१८॥
अ॒द्भ्यः सम्भू॑तः पृथि॒व्यै रसा॓च्च । वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑ ।
तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमॆति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रॆ॓ ॥१९॥
वॆदा॒हमॆ॒तं पुरु॑षं म॒हान्तम्॓ । आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् ।
तमॆ॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तॆஉय॑नाय ॥२॰॥
प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानॊ बहु॒धा विजा॑यतॆ ।
तस्य॒ धीराः॒ परि॑जानन्ति॒ यॊनिम्॓ । मरी॑चीनां प॒दमिच्छन्ति वॆ॒धसः॑ ॥२१॥
यॊ दॆ॒वॆभ्य॒ आत॑पति । यॊ दॆ॒वानां पु॒रोहि॑तः ।
पूर्वो॒ यॊ दॆ॒वॆभ्यॊ॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑यॆ ॥२२॥
रुचं॑ ब्रा॒ह्मं ज॒नय॑न्तः । दॆ॒वा अग्रॆ॒ तद॑ब्रुवन् ।
यस्त्वै॒वं ब्रा॓ह्म॒णॊ वि॒द्यात् । तस्य॒ दॆ॒वा अस॒न् वशॆ॓ ॥२३॥
ह्रीश्च॑ तॆ ल॒क्ष्मीश्च॒ पत्न्यौ॓ । अ॒हॊ॒रा॒त्रॆ पा॒र्श्वॆ ।
नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्तम्॓ ।
इ॒ष्टं म॑निषाण । अ॒मुं म॑निषाण । सर्वं॑ मनिषाण ॥२४॥
तच्चं॒ यॊरावृ॑णीमहॆ । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तयॆ । दैवी॓ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षॆभ्यः ।
ऊ॒र्ध्वं जि॑गातु भॆष॒जम् । शं नॊ॑ अस्तु द्वि॒पदे॓ । शं चतु॑ष्पदॆ ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥