Generic selectors
Exact matches only
Search in title
Search in content
Post Type Selectors
post
post
page

Devi Mahatmya Kavach

The Devi Mahatmyam or Devi Mahatmya is a Hindu text describing the victory of the goddess Durga over the demon Mahishasur. As part of the Markandeya Puran, it is one of the Purans or secondary Hindu scriptures.

The “Devi Mahatmya Kavach” (also known as “Durga Kavach“) is a powerful hymn dedicated to the goddess Durga, extolling her protective and nurturing aspects. This sacred text is part of the Markandeya Puran and is often recited during Navratri and other festivals dedicated to the goddess. The Kavach (armor) is believed to provide spiritual protection and blessings to those who chant it with devotion.
The Devi Mahatmya Kavach is recited to invoke the goddess’s protection, seeking to be shielded from negative forces, diseases, and fear. It highlights Durga’s multiple forms and attributes, emphasizing her power to protect and bless her devotees. By chanting this Kavach with sincerity and devotion, individuals believe they can attain spiritual and material benefits, ensuring safety, prosperity, and inner peace.

।। अथ देवी कवचम्‌ ।।

ॐ नमश्चण्डिकायै

मार्कण्डेय उवाच ।

ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।
यन्न कस्य चिदाख्यातं तन्मे ब्रूहि पितामह ॥ १ ॥

॥ ब्रह्मोवाच ॥

अस्ति गुह्यतमं विप्र सर्व भूतोप कारकम् ।
दिव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २ ॥

प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३ ॥

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनी तथा ।
सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् ॥ ४ ॥

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५ ॥

अग्निना दह्यमानास्तु शत्रुमध्यगता रणे ।
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ ६ ॥

न तेषां जायते किञ्चिदशुभं रणसङ्कटे ।
आपदं न च पश्यामि शोकदुःखभयङ्करीम् ॥ ७ ॥

यैस्तु भक्त्या स्मृता नित्यं तेषां वृद्धिः प्रजायते ।
ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः ॥ ८ ॥

प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥ ९ ॥

माहेश्वरी वृषारूढा कौमारी शिखिवाहना।
लक्ष्मी: पद्मासना देवी पद्महस्ता हरिप्रिया॥ १० ॥

श्वेतरूपधारा देवी ईश्वरी वृषवाहना।
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता॥ ११ ॥

इत्येता मातरः सर्वाः सर्वयोगसमन्विताः।
नानाभरणशोभाढया नानारत्नोपशोभिता:॥ १२ ॥

दृश्यन्ते रथमारूढा देव्याः क्रोधसमाकुला:।
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ १३ ॥

खेटकं तोमरं चैव परशुं पाशमेव च ।
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ १४ ॥

दैत्यानां देहनाशाय भक्तानामभयाय च।
धारयन्त्यायुद्धानीथं देवानां च हिताय वै ॥ १५ ॥

नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ।
महाबले महोत्साहे महाभयविनाशिनि ॥ १६ ॥

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ।
प्राच्यां रक्षतु मामैन्द्रि आग्नेय्यामग्निदेवता ॥ १७ ॥

दक्षिणेऽवतु वाराही नैऋत्यां खङ्गधारिणी।
प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ॥ १८ ॥

उदीच्यां पातु कौबेरी ईशान्यां शूलधारिणी ।
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ॥ १९ ॥

एवं दश दिशो रक्षेच्चामुण्डा शववाहना ।
जाया मामग्रतः पातु: विजया पातु पृष्ठतः ॥ २० ॥

अजिता वामपार्श्वे तु दक्षिणे चापराजिता।
शिखां मे द्योतिनि रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥ २१ ॥

मालाधारी ललाटे च भ्रुवो रक्षेद्यशस्विनी ।
त्रिनेत्रा च त्रिसूलेन भ्रुवोर्मध्ये च चण्डिका ॥ २२ ॥

शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।
कपोलौ कालिका रक्षेत्कर्णमूले तु शङ्करी ॥ २३ ॥

नासिकायां सुगन्‍धा च उत्तरोष्ठे च चर्चिका ।
अधरे चामृताबाला जिह्वायां च सरस्वती ॥ २४ ॥

दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका ।
घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ २५ ॥

कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला ।
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धारी ॥ २६ ॥

नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी ।
स्कन्धयोः खङ्गिनी रक्षेद्‍ बाहू मे वज्रधारिणी ॥ २७ ॥

हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ।
नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेन्नरेश्वरी ॥ २८ ॥

स्तनौ रक्षेन्‍महादेवी मनःशोकविनाशिनी ।
हृदये ललिता देवी उदरे शूलधारिणी ॥ २९ ॥

नाभौ च कामिनी रक्षेद्‍ गुह्यं गुह्येश्वरी तथा ।
मेढ्रं रक्षतु दुर्गन्धा पायुं मे गुह्यवाहिनी ॥ ३० ॥

कट्यां भगवती रक्षेदूरू मे मेघवाहना ।
जङ्घे महाबला रक्षेत् जानू माधवनायिका ॥ ३१ ॥

गुल्फयोर्नारसिंही च पादपृष्ठे तु कौशिकी ।
पादाङ्गुलीः श्रीधरी च तलं पातालवासिनी ॥ ३२ ॥

नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी ।
रोमकूपेषु कौमारी त्वचं योगीश्वरी तथा ॥ ३३ ॥

रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ ३४ ॥

पद्मावती पद्मकोशे कफे चूडामणिस्तथा ।
ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥ ३५ ॥

शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा ।
अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥ ३६ ॥

प्राणापानौ तथा व्यानमुदानं च समानकम् ।
वज्रहस्ता च मे रक्षेत् प्राणान् कल्याणशोभना ॥ ३७ ॥

रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ।
यशः कीर्तिं च लक्ष्मीं च सदा रक्षतु वैष्णवी ॥ ३८ ॥

आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी ।
यशः कीर्तिं च लक्ष्मीं च धन् विद्याम् च चक्रिणी ॥ ३९ ॥

गोत्रामिन्द्राणि मे रक्षेत् पशून् रक्षेच्च चण्डिका
पुत्रान् रक्षेन्महालक्ष्मीर्भर्यां रक्षतु भैरवी ॥ ४० ॥

पन्थानं सुपथा रक्षेन्मार्गं क्षेमङ्करी तथा ।
राजद्वारे महालक्ष्मीर्विजया सतत स्थिता ॥ ४१ ॥

रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु ।
तत्सर्वं रक्ष मे देवी जयन्ती पापनाशिनी ॥ ४२ ॥

पदमेकं न गच्छेत् तु यदिच्छेच्छुभमात्मनः ।
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ॥ ४३ ॥

तत्र तत्रार्थलाभश्च विजयः सार्वकालिकः ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ ४४ ॥

परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ।
निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः ॥ ४५ ॥

त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ।
इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥ ४६ ॥

य: पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ।
दैवीकला भवेत्तस्य त्रैलोक्ये चापराजितः ॥ ४७ ॥

जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ।
नश्यन्ति व्याधय: सर्वे लूताविस्फोटकादयः ॥ ४८ ॥

स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् ।
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ॥ ४९ ॥

भूचराः खेचराश्चैव कुलजाश्चौपदेशिकाः ।
सहजा कुलजा माला डाकिनी शाकिनी तथा ॥ ५० ॥

अन्तरिक्षचरा घोरा डाकिन्यश्च महाबला:।
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसा:॥ ५१ ॥

ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ।
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥ ५२ ॥

मानोन्नतिर्भावेद्रा राज्ञस्तेजोवृद्धिकरं परम् ।
यशोस वृद्धिर्भवेत् पुंसां कीर्ति मण्डित भूतले ॥ ५३ ॥

जपेत् सप्तशतीं चण्डीं कृत्वा तु कवचं पूरा ।
यावद्भूमण्डलं धत्ते सशैलवनकाननम् ॥ ५४ ॥

तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ।
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ ५५ ॥

प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ।
लभते परमं रूपम् शिवेन सहःमोदत् ॥ ५६ ॥

॥ इति श्रीमार्कण्डेयपुराणे हरिहरब्रह्मविरचितं देवीकवचं समाप्तम् ॥

share:

Leave a Reply

Your email address will not be published. Required fields are marked *

Tip:

To create your own playlist, go to Prayers and click onsave-your-favorite-prayer symbol.

You can Group your favourite Prayers, Mantras, Stotras, etc. and find them easily in your My Playlists section.

Explore More ...

Rishi Narad

Rishi Narad

Rishi Nārad is one of the most fascinating sages in Hindu…

Rishi Shonak

Rishi Shonak

Rishi Śaunaka (often spelled Shonak) was a highly respected sage…

Rishi Bhaskaracharya

Rishi Bhaskaracharya

Rishi Bhaskaracharya (also known as Bhāskara II) was one of…

Rishi Aryabhat

Rishi Aryabhat

Aryabhat  was an Indian mathematician and astronomer, who lived during…

Rishi Lagadh

Rishi Lagadh

Rishi Lagadh, also known as Lagadhacharya, was a revered Vedic…

Rishi Varāhamihira

Rishi Varāhamihira

Rishi Varahamihira was a renowned Indian astronomer, mathematician, and astrologer…

Rishi Jaimini

Rishi Jaimini

Jaimini Rishi is one of the most outstanding scholars and…

Rishi Prashar

Rishi Prashar

Rishi Parāśara (sometimes spelled Prashar) is a revered sage in…

Acharya Charaka : Father of the Ayurved

Acharya Charaka :…

Acharya Charak was one of the most renowned physicians and…

Rishi Vashishtha

Rishi Vashishtha

Rishi Vashishtha is one of the most revered sages (maharishis)…

Rishi Narad

Rishi Narad

Rishi Nārad is one of the most fascinating sages in Hindu…

Rishi Shonak

Rishi Shonak

Rishi Śaunaka (often spelled Shonak) was a highly respected sage…

Rishi Bhaskaracharya

Rishi Bhaskaracharya

Rishi Bhaskaracharya (also known as Bhāskara II) was one of…

Rishi Aryabhat

Rishi Aryabhat

Aryabhat  was an Indian mathematician and astronomer, who lived during…

Rishi Lagadh

Rishi Lagadh

Rishi Lagadh, also known as Lagadhacharya, was a revered Vedic…

Rishi Varāhamihira

Rishi Varāhamihira

Rishi Varahamihira was a renowned Indian astronomer, mathematician, and astrologer…

Rishi Jaimini

Rishi Jaimini

Jaimini Rishi is one of the most outstanding scholars and…

Rishi Prashar

Rishi Prashar

Rishi Parāśara (sometimes spelled Prashar) is a revered sage in…

Acharya Charaka : Father of the Ayurved

Acharya Charaka :…

Acharya Charak was one of the most renowned physicians and…

Rishi Vashishtha

Rishi Vashishtha

Rishi Vashishtha is one of the most revered sages (maharishis)…